॥ श्री कामाख्या स्तोत्रम् ॥ - रुद्रयामलोक्त
विनियोग:
ॐ अस्य कामाख्या-स्तोत्रस्य श्री अक्षोभ्य ऋषि:, अनुष्टुप् छन्द:, श्री कामाख्या देवता, सर्व-सिद्धि-प्राप्त्यर्थे जपे विनियोग:।
स्तोत्रम्:
जय कामेशि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १ ॥
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ २ ॥
मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये ।
महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ ३ ॥
भीमाक्षि भीषणे देवि सर्वभूतक्षयङ्करि ।
करालि विकरालि च कामेश्वरि नमोऽस्तु ते ॥
कालि करालविक्रान्ते कामेश्वरि हरप्रिये ।
सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ ४ ॥
कामरूपप्रदीपे च नीलकूटनिवासिनि ।
निशुम्भशुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ ५ ॥
कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये ।
कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ ६ ॥
वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि ।
महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ ७ ॥
छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते ।
जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ ८ ॥
कामरूपसमुद्भूते कामपीठावतंसके ।
विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥
अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि ।
कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥
या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणी ।
प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते
प्रातःकाल पाठ फल:
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥
संवत्सरेण लभते राज्यं निष्कण्टकं पुनः ।
य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥
प्रातः पूजन विधि:
1. प्रातः स्नान के बाद लाल आसन पर पूर्व मुख बैठें।
2. दीपक में तिल का तेल, गुड़हल के फूल और सिंदूर अर्पित करें।
3. इस स्तोत्र का 3 या 7 बार पाठ करें और अंत में - ॐ ह्रीं कामाख्यायै नमः - 108 बार जप करें।
यह स्तुति रुद्रयामल में तंत्र की अधिष्ठात्री के रूप में कामाख्या को प्रसन्न करने वाली कही गई है।

0 टिप्पणियाँ