महानारायणास्त्रम् !! (रामानुजवैष्णव सम्प्रदाय के चक्राङ्कित वैष्णवों हेतु ॥पूर्णशुद्ध सात्विक तपोनिष्ठ वैष्णव ब्राह्मणों द्वारा मात्र प्रयोग ॥)


अथ महानारायणास्त्रम्

देविदेवि महादेवि करुणाकरपुङ्गवि ।

कथितान्यागमोक्तानि महास्त्राणि त्वयानघे ॥ १॥

गारुडं वारुणं सार्षं पार्वतं बलिदैवतम् ।

अघोराख्यं महास्त्रञ्च तथा पाशुपतं शुभम् ॥ २॥


नारायणाख्यमस्त्रं च कथय स्वानुकम्पया ।

न कथ्यते महामातर्विमुञ्चामि तदा तनुम् ॥ ३॥


देव्युवाच

श‍ृणु भैरव यत्नेन कथयामि तवाग्रतः ।

कस्याग्रे न कथितं मन्त्रं नारायणात्मकम् ॥ ४॥


महाभये महोत्पाते महाविघ्नेषु सङ्कटे ।

धारणादस्त्रराजस्य भयं सर्वं निवर्तते ॥ ५॥


पूर्वं यद्ब्रह्मणे प्रोक्तं विष्णुना प्रभविष्णुना ।

सृष्टिकाले महाविघ्नपराभूताय भैरव ॥ ६॥


तदहं सम्प्रवक्ष्यामि महाशत्रुनिबर्हणम् ।

महाविघ्नोपशमनं महासङ्कटनाशनम् ॥ ७॥


ॐ अस्य श्रीनारायणास्त्रमहामन्त्रस्य आदिसृष्टिकर्ता ब्रह्माऋषिः,

जगती छन्दः, त्रिपादविभूतिनायकः श्रीमन्नारायणो देवता,

ॐ बीजम्, ह्रीं शक्तिः, ॐ नमःकीलकम्, मम सर्वारिष्टशान्तये

सकलाभीष्टसिद्ध्यर्थे च नारायणास्त्रमहामन्त्रपाठे विनियोगः ॥


अथ ध्यानं

ध्यायेत्सागरमध्यस्थं सहस्रादित्यतेजसम् ।

अनन्तशक्तिसंयुक्तं नारायणमनामयम् ॥ ८॥


ॐ ऐं ह्रीं श्रीं नमो भगवते नारायण सकल जगदुत्पत्ति-स्थिति लयकारणाय अमिततेजसे अतुलबलपराक्रमाय महाविभूतिपतये ह्रीं ह्रीं ह्रैं ह्रैं ह्रः सकलनिगमगोचर गुणगणाय महासम्राज्यविभूति विभूषिताय ध्वजातपत्रचामरव्यजनकुण्डल कर कटि सूत्राङ्गदादि हार- वलयमणिनूपुराद्यनेकमणिभूषण भूषिताय सहस्रशिरसे सहस्राक्षाय सहस्रभुजाय सहस्रपादाय शङ्खचक्रगदापद्मधराय शार्ङ्गधर शरनन्दकखड्गचर्मखेटकपरशुपाशहलमुसल-

तोमरभुशुण्डीपाशाङ्कुशकुन्तशतघ्नीपरशुवराभय

विभूषितभुजसहस्राय बलिरञ्जितब्रह्माण्डमण्डलाय अनन्त- नागेन्द्रसिंहासनाधिष्ठिताय सनकाद्यनेक मुनिगणसिद्धचारण- विद्याधरकिन्नरगन्धर्वयक्ष रक्षोरगगीर्वाणस्वर्गीतगुणार्णवाय सकल जगद्भयङ्कराय भूतप्रेतपिशाचयक्षराक्षस डाकिनी शाकिनी वैतालमारीच ब्रह्मराक्षसकूष्माण्ड वैनायक मातृगणानुन्मथय-मथय क्षयं कुरु-कुरु कुष्टदुष्टज्वर दाहापस्मारीप्रमेहविस्फोटक- ब्रह्मापस्मारादि सर्वराजरोगान् विहिंसनाय ममाभयं कुरु-कुरु मम शत्रूनुच्चाटय-उच्चाटय व्याधिभयं शमय-शमय चौरभयं नाशय- नाशय महास्त्राणि स्तम्भय-स्तम्भय

मम दुष्टग्रहान् भीषय-भीषय मम द्वेषकरान् मोहय-मोहय स्तम्भय-स्तम्भय कम्पय-कम्पय पातय-पातय बन्धय-बन्धय भूतग्रहान् बन्धय-बन्धय बालग्रहान् शमय-शमय यक्षपक्ष- ज्वालातमोहार - ग्रहान् ज्वल-ज्वल- प्रज्ज्वल-प्रज्ज्वल मथ-मथ पच-पच दह-दह उन्मथयोन्मथय मम शत्रून् विनाशय-विनाशय त्रोटय-त्रोटय निगडपाशादीन् मोचय-मोचय वद्दिवातसुपर्णनाग- पर्वतपर्जन्यादि दुष्टशस्त्रास्त्रजन्यबन्धनानि शमय-शमय शत्रुकृत महापीडां शमय-शमय दुष्टरोगपीडां शमय-शमय

दुष्कृतपीडां शमय-शमय भूत-प्रेत-पिशाचादि पीडां

शमय-शमय दुष्कर्मजन्यनरकभयात् मामुद्धरोद्धर

मां सञ्जीवय-सञ्जीवय महामृत्युभ्यां मां मोचय-मोचय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः खं खां खैं फट्

हुँ हुँ हुँ फट्-फट् ठःठःठः ह्रीं ह्रीं ह्रीं हुँ हुँ हुँ

एहि-एहि ज्वल-ज्वल प्रज्वल-प्रज्वल हुँ फट् स्वाहा

ॐ नमोनारायणाय नमस्ते नमस्ते नमस्ते ॥ ९॥


देव्युवाच

इत्येतत्पपरमं गुह्यमस्त्रं नारायणात्मकम् ।

त्वमेव संयतो भूत्वा धारयस्व निरन्तरम् ॥ १०॥


महाभये महोत्पाते महाशत्रुसमागमे ।

रणे दुर्गे विवादे च पाते चौराग्निजे भये ॥ ११॥


विषसर्पभये घोरे मारीराजभये तथा ।

स्मरणान्मन्त्रराजस्य भयं सर्वं निवर्तते ॥ १२॥


एकवारं पठेद्यो वै व्याधिभूतादिनाशनम् ।

एकवारं पठेद्यो वै दशविद्याफलं लभेत् ॥ १३॥


शतावर्तनमात्रेण सर्वशत्रुक्षयो भवेत् ।

सहस्रावर्तनेनैव ग्रहपीडा निवर्तते ॥ १४॥


अयुतावर्तनेनैव राज्यलक्ष्मी स्थिरा भवेत् ।

पञ्जविंशति सहस्रेण पञ्जतत्त्वाधिपो भवेत् ॥ १५॥


लक्षावर्तनमात्रेण लक्ष्मीपतिः सम्भवेत् ।

नदीतीरे पर्वताग्रे पिप्पलाग्रे शुभालये ॥ १६॥


गोष्ठे वृन्दावने रम्ये पठन्मन्त्रमनूत्तमम् ।

त्रिलोहवेष्ठितं चैतद्धारयेद्दक्षिणे करे ॥ १७॥


सङ्ग्रामे शस्त्रसम्पाते शस्त्रधारानिबन्धनम् ।

त्वमपि श्रद्धया मन्त्रं धारयस्व निरन्तरम् ॥ १८॥


सुरासुरैरजेयश्च भविष्यसि न संशयः ।

तव स्नेहान्मयाऽऽख्यातं मन्त्रराजमनूत्तमम् ॥ १९॥


गोपायस्व प्रयत्नेन गुह्याद्गुह्यन्तरं परम् ।

सुशिष्याय प्रदातव्यं महाविद्याप्रजापिने ॥ २०॥


इति महानारायणास्त्रप्रयोगः ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ